Achyutashtakam Lyrics – अच्युतं केशवं रामनारायणं लिरिक्स
यहाँ Achyutashtakam Lyrics in sanskrit, अच्युतं केशवं रामनारायणं लिरिक्स दिया गया है –
अच्युतं केशवं रामनारायणं,
कृष्णदामोदरं वासुदेवं हरिम् |
श्रीधरं माधवं गोपिकावल्लभं,
जानकीनायकं रामचंद्रं भजे || 1 ||
अच्युतं केशवं सत्यभामाधवं,
माधवं श्रीधरं राधिकाराधितम् |
इन्दिरामन्दिरं चेतसा सुन्दरं,
देवकीनन्दनं नन्दजं सन्दधे || 2 ||
विष्णवे जिष्णवे शाङ्खिने चक्रिणे,
रुक्मिणिरागिणे जानकीजानये |
बल्लवीवल्लभायार्चितायात्मने,
कंसविध्वंसिने वंशिने ते नमः || 3 ||
कृष्ण गोविन्द हे राम नारायण,
श्रीपते वासुदेवाजित श्रीनिधे |
अच्युतानन्त हे माधवाधोक्षज,
द्वारकानायक द्रौपदीरक्षक || 4 ||
राक्षसक्षोभितः सीतया शोभितो,
दण्डकारण्यभूपुण्यताकारणः |
लक्ष्मणेनान्वितो वानरौः सेवितो,
ऽगस्तसम्पूजितो राघव पातु माम् || 5 ||
धेनुकारिष्टकानिष्टकृद्द्वेषिहा,
केशिहा कंसहृद्वंशिकावादकः |
पूतनाकोपकःसूरजाखेलनो,
बालगोपालकः पातु मां सर्वदा || 6 ||
विद्युदुद्योतवत्प्रस्फुरद्वाससं,
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् |
वन्यया मालया शोभितोरःस्थलं,
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे || 7 ||
कुञ्चितैः कुन्तलैर्भ्राजमानाननं,
रत्नमौलिं लसत्कुण्डलं गण्डयोः |
हारकेयूरकं कङ्कणप्रोज्ज्वलं,
किङ्किणीमञ्जुलं श्यामलं तं भजे || 8 ||
अच्युतस्याष्टकं यः पठेदिष्टदं,
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् |
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य,
वश्यो हरिर्जायते सत्वरम् || 9 ||
|| इति मच्छंकराचार्यकृतम्अच्युताष्टकं सम्पूर्णं || अच्युतं केशवं रामनारायणं लिरिक्स ||